|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.49. अध्यायः 049
Mahabharata - Drona Parva - Chapter Topics
अभिमन्युवधः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-49-0x(4376)(46706)
विष्णोः स्वसुर्नन्दकरः स विष्ण्वायुधभूषणः।
रराजातिरथः सङ्ख्ये जनार्दन इवापरः॥ 7-49-1(46707)
मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम्।
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि॥ 7-49-2(46708)
`यदि पाणितलादेतच्चक्रं मुञ्चेत फाल्गुनिः।
वरदानान्मातुलस्य विष्णोश्चक्रमिवापतेत्'॥ 7-49-3(46709)
तच्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा।
महारथस्ततः कार्ष्मिः स जग्राह महागदाम्॥ 7-49-4(46710)
विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः।
अभिमन्युर्गदापाणिरश्वत्थामानमार्दयत्॥ 7-49-5(46711)
स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव।
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः॥ 7-49-6(46712)
तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी।
शराचिताङ्गः सौभद्रः श्वाविद्वत्समदृश्यत॥ 7-49-7(46713)
ततः सुबलदायादं कालिकेयमपोथयत्।
जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम्॥ 7-49-8(46714)
पुनश्चैव वसातीयाञ्जघान रथिनो दश।
केकयानां रथान्सप्त हत्वा च दश कुञ्जरान्।
दौःशासनिरथं साश्वं गदया समपोथयत्॥ 7-49-9(46715)
ततो दौःशसनिः क्रुद्धो गदामुद्यम्य मारिष।
अभिदुद्राव सौभद्रं तिष्ठतिष्ठेति चाब्रवीत्॥ 7-49-10(46716)
तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ।
भ्रातृव्यौ सम्प्रजहाते पुरेव त्र्यम्बकान्धकौ॥ 7-49-11(46717)
तावन्योन्यं गदाग्राभ्यामाहत्य पतितौ क्षितौ।
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ॥ 7-49-12(46718)
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः।
उत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत्॥ 7-49-13(46719)
गदावेगेन महता व्यायामेन च मोहितः।
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा॥ 7-49-14(46720)
एवं विनिहतो राजन्नेको बहुभिराहवे।
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः॥ 7-49-15(46721)
अशोभत हतो वीरो व्याधैर्वनगजो यथा।
तं तथा पतितं शूरं तावकाः पर्यवारयन्॥ 7-49-16(46722)
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये।
विमृद्व्य नगशृङ्गाणि सन्निवृत्तमिवानिलम्॥ 7-49-17(46723)
अस्तिं गतमिवादित्यं तप्त्वा भारत वाहिनीम्।
उपप्लुतं यथा सोमं संशुष्कमिव सागस्म्॥ 7-49-18(46724)
पूर्णचन्द्राभवदनं काकपक्षवृतालिकम्।
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः।
मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः॥ 7-49-19(46725)
आसीत्परमको हर्षस्तावकानां विशाम्पते।
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम्॥ 7-49-20(46726)
अन्तरिक्षे च भूतानि प्राक्रोशन्त विशाम्पते।
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात्॥ 7-49-21(46727)
द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः।
एकोऽयं निहतः शेते नैष धर्मो मतो हि नः॥ 7-49-22(46728)
तस्मिन्विनिहते वीरे बह्वशोभत मेदिनी।
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी॥ 7-49-23(46729)
रुक्मपुङ्खैश्च सम्पूर्णा रुधिरौघपरिप्लुता।
उत्तमाङ्गैश्च शूराणां भ्राजमानैः सकुण्डलैः॥ 7-49-24(46730)
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता।
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः॥ 7-49-25(46731)
रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः।
खङ्गैः सुनिशितैः पीतैर्निर्मुक्तैर्भुजगैरिव॥ 7-49-26(46732)
चापैश्च विविधैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः।
विविधैश्चायुधैश्चान्यैः संवृता भूरशोभत॥ 7-49-27(46733)
`निष्टनद्भिरतीवान्यैरुद्वहद्रुधिरस्रवैः।
नरैः पतद्भिः पतितैरवनी स्वधिकं बभौ॥ 7-49-28(46734)
वाजिभिश्चापि निर्जीवैः श्वसद्भिः शोणितोक्षितैः।
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः॥ 7-49-29(46735)
साङ्कुशैः समहामात्रैः सर्वमायुधकेतुभिः।
पर्वतैरिव विध्वस्तैर्विशिखैर्मथितैर्गजैः॥ 7-49-30(46736)
पृथिव्यानुकीर्णैश्च अश्वसारथियोधिभिः।
हदैरिव प्रक्षुभितैर्हृतनागै रथोत्तमैः॥ 7-49-31(46737)
पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः।
भीरूणां त्रासजननी घोररूपाऽभवन्मही॥ 7-49-32(46738)
तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम्।
तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा॥ 7-49-33(46739)
अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने।
सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः॥ 7-49-34(46740)
दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते।
अजातशत्रुस्तान्वीरानिदं वचनमब्रवीत्॥ 7-49-35(46741)
स्वर्गमेष गतः शूरो यो हतो न पराङ्मुखः।
संस्तम्भयत माभैष्ट विजेष्यामो रणे रिपून्॥ 7-49-36(46742)
इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः।
धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत्॥ 7-49-37(46743)
युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे रिपून्।
पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरभ्ययात्॥ 7-49-38(46744)
हत्वा दशसहस्राणि कौसल्यं च महारथम्।
कृष्णार्जुनसमः कार्ष्णिः शक्रलोकं गतो ध्रुवम्॥ 7-49-39(46745)
रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः।
अवितृप्तः स सङ्ग्रामादशोच्यः पुण्यकर्मकृत्। 7-49-40(46746)
गतः पुण्यकृतां लोकाञ्शाश्वतान्पुण्यनिर्जितान्॥ ॥ 7-49-41(46747)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे एकोनपञ्चाशत्तमोऽध्यायः॥ 49 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-49-18 उपप्लुतं राहुग्रस्तम्॥ 5-49-19 काकपक्षावृताक्षिकं इति झ पाठः॥ 5-49-30 विशाखोन्मथितैर्गजैः इति क.पाठः॥ 5-49-31 व्यश्वसारथियोधिभिः इति क.पाठः॥ 5-49-49 एकोनपञ्चाशत्तमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|